अभयं मित्रादभयमत्राद् , अभयं ज्ञातादभयं पुरो यः। अभयं नक्तमभयं दिवा नः , सर्वा आशा मम मित्रं भवन्तु ।
अथर्ववेद
नित्योऽनित्यानां चेतनोऽचेतनानाम् एको बहूनां यो विदधाति कामान्। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शास्वती नेतरेषाम्॥
~ कठोपनिषद्
यो देवौ अग्नौ यो अप्सु यो विश्वभूवनमाविवेश। यो औषधीषु यो वनस्पतीषु तस्मै देवाय नमो नमः॥ ~ श्वेताश्वतर उपनिषद्