Wednesday, July 15, 2009

सङ्क्टनाशनगणेशस्त्रोम्

 

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।

भक्तावासं स्मरेन्नित्यमायुःकामार्थसिध्दये ॥1॥

प्रथमं वक्रतुण्डं च एकदन्त द्वितीयकम् ।

तृतीयं कृष्णपिग्ङाक्षं गजवक्त्रं चतुर्थकं ॥2॥

लम्भोदरं पञ्चम च षष्ठं विकटमेव च।

सप्तम विघ्नराजं च धूम्रवर्णँ तथाष्टमम् ॥3॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।

एकादशं गणपति द्वादशं तु गजाननम् ॥4॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥5॥

विद्धार्थी लभते विद्धां धनार्थी लभते धनम् ।

पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥6॥

जपेद्गणपतिस्तोत्रं षड्रभिर्मासैः फलं लभेत् ।

संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥7॥

अष्टभ्यो ब्राह्माणेभ्यश्च लिखित्वा यः समर्पयेतः ।

तस्य विद्धा भवेत्सर्वा गणेशस्य प्रसादतः ॥8॥

No comments:

Post a Comment